श्रीश्री १०८ स्वामी प्रेमदासजी काठिया बाबाजी महाराज

श्रीश्री १०८ स्वामी प्रेमदासजी काठिया बाबाजी महाराज

श्रीश्रीप्रेमदासाष्टकम्

श्रीविष्णुस्वरूपं प्रेमावतारं श्रीमद्गुरुम्।
प्रशांतवदनं प्रफुल्ललोचनं मनोहरम्।।

जटाजूटविभूषितं करुणामयविग्रहम्।
ध्यायेम श्रीप्रेमदासं नररूपजगदीश्वरम्।।

श्रीरामदासप्रशिष्यं काष्ठकौपीनभूषितम्।
गोपीचन्दनचर्चितं उन्नतसुललाटकम्।।

दिव्यकान्तिशुक्लवर्णं कण्ठे तुलस्याभूषणम्।
ब्रजविदेहीमहान्तं श्रीप्रेमदासं भजाम्यहम्।।

श्रीनिम्बार्कपथानुगं हरिभक्तिपरायणम्।
असीमप्रभावं सर्वाभिलाषपरिपूरकम्।।

कलिकल्मषप्रणाशनं श्रीसन्तदासशिष्यम्।
परं करुणाकरं श्रीप्रेमदासं भजाम्यहम्।।

शाश्वतं सर्वातीतं चैतन्यमेकं नित्यम्।
साकारं निराकारञ्च सर्वज्ञमानन्दरूपम्।।

भक्तिमुक्तिप्रदातारं सर्वशास्त्रविशारदम्।
शरणागताश्रयं श्रीप्रेमदासं भजाम्यहम्।।

सहर्षेण पदाम्बुजाय ते ज्ञात्वा त्वामेकाश्रयम्।
गुरुस्तोत्रमिदं नित्यं कृष्णदासेन भाषितम्।।

भक्तिमान यः पठेदेतं लभते स वरमिप्सितम्।
अचलां भक्तिं प्राप्नोति लभते च मोक्षं ध्रुवम्।।

इति कृष्णदासेन कृतं श्रीमद्गुरुस्तोत्रं समाप्तम्।

 

दशश्लोकी श्रीश्रीप्रेमदासलीलामृतम् 

पूर्वबङ्गे भारते कन्यालग्ने च जातं श्रीहट्टस्य काशीपुरे।
कुम्भराशौ शारदीयशुक्लपक्षे सप्तमीतिथौ च शनिवारे ।। १ ।।

सद्गुरुसंधानरतं तीव्रवैराग्यसह च कालयापनम्।
प्राणायामादियोगावस्थितं सहसा स्वजनादिपरिवर्जनम्।। २ ।।

श्रीसंतदासात् कैशरोत्तरकाले सदीक्षासन्यासाश्रमग्रहणम्।।
गोपालमंत्रराज: आराधनं नैष्ठिकब्रह्मचर्यव्रतपालनम्।। ३ ।।

कदमखण्डिपर्वते सुपवित्रब्रजभूमौ निर्जलानाहारस्थितम्।
सुकठोरतपश्चरणमज्जितं पश्चात् ब्रह्मविद्भवनम् ।। ४ ।।

सर्वतीर्थादिदर्शनं ब्रजविदेहीश्रीमहान्तपदविभूषितम् ।
मधुरसुस्निग्धवचनेन संख्यातीतमानवचित्तहरणम् ।। ५ ।।

त्रीणिवाराणि चातुर्मासीगोपालमंत्रजपानुष्ठानोद्यापनम्।।
सहर्षेण च तत्पश्चात् विष्णुयज्ञानुष्ठानत्रयपालनम्।। ६ ।।

वृन्दावनकुम्भे श्रीश्रीरामदासकाठियाबाबाखालसासंस्थापनम्।
प्रतिकुम्भे सर्वदेशे च सप्रेमसाधुसेवापरायणम् ।। ७ ।।

श्रद्धाभक्तिरंजित: कायेनमनसावाचा गुरुर्नामप्रचारणम्।।
वृन्दावनबङ्गयो: श्रीश्रीसंतदासबाबाश्रमप्रतिष्ठितम्।। ८ ।।

सर्वकल्मषप्रणाशाय श्रीश्रीसद्गुरुरूपीलीलाप्रदर्शनम् ।
पराभक्तिप्रदानेन दीक्षया अगणितपतितशिष्योद्धारणम् ।। ९ ।।

भाद्रपूतशुक्लनवमीतिथौ स्वेच्छया गोलोकधामप्रयाणम् ।
इति कृष्णदासेन कृतं दशश्लोकी श्रीश्रीप्रेमदासलीलामृतम् ।। १० ।।

CONTINUE READING
Share this post
Come2theweb